Sukta 5.6
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥
सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नव॑: । समर्व॑न्तो रघु॒द्रुव॒: सं सु॑जा॒तास॑: सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
só agnír yó vásur gṛṇé sáṃ yám āyánti dhenávaḥ | sám árvanto raghu-drúvaḥ sáṃ sujātā́saḥ sūráya íṣaṃ stotṛ́bhya ā́ bhara ||
That Agni is the Treasure whom we praise; to him the milking powers come together. Together come the swift-steady steeds; together the well-born shining ones—bring to the singers the impulsion of increase.
सः । अ॒ग्निः । यः । वसुः॑ । गृ॒णे । सम् । यम् । आ॒ऽयन्ति॑ । धे॒नवः॑ । सम् । अर्व॑न्तः । र॒घु॒ऽद्रुवः॑ । सम् । सु॒ऽजा॒तासः॑ । सू॒रय । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आयन्ति । धेनवः । सम् । अर्वन्तः । रघुद्रुवः । सम् । सुजातासः । सूरय । इषम् । स्तोतृभ्यः । आ । भर ॥saḥ | agniḥ | yaḥ | vasuḥ | gṛṇe | sam | yam | āyanti | dhenavaḥ | sam | arvantaḥ | raghu-druvaḥ | sam | su-jātāsaḥ | sūraya | iṣam | stotṛ-bhyaḥ | ā | bhara