Sukta 5.6
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नव॑: । अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इष॑न स्तो॒तृभ्य॒ आ भ॑र ॥
agníṃ táṃ manye yó vásur ástam yáṃ yánti dhenávaḥ | ástam árvanta āśávo’stáṃ nítyāso vājína íṣan stotṛ́bhya ā́ bhara ||
I hold that Agni to be the true Treasure, the home to which the milking powers move; to that home run the swift horses, to that home the ever-renewed strong ones press—bring to the singers the impulsion and plenitude of force.
अ॒ग्निम् । तम् । म॒न्ये॒ । यः । वसुः॑ । अस्त॑म् । यम् । यन्ति॑ । धे॒नवः॑ । अस्त॑म् । अर्व॑न्तः । आ॒शवः॑ । अस्त॑म् । नित्या॑सः । वा॒जिनः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः । अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृभ्यः । आ । भर ॥agnim | tam | manye | yaḥ | vasuḥ | astam | yam | yanti | dhenavaḥ | astam | avarntaḥ | āśavaḥ | astam | nityāsaḥ | vājinaḥ | iṣam | stotṛ-bhyaḥ | ā | bhara