Sukta 5.54
प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः । प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥
प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्य॑: प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्य॑: । प्र॒वत्व॑तीः प॒थ्या॑ अ॒न्तरि॑क्ष्याः प्र॒वत्व॑न्त॒: पर्व॑ता जी॒रदा॑नवः ॥
právatvatī́yáṁ pṛthivī́ marúdbhyaḥ právatvatī́ dyáur bhavati práyadbhyaḥ | právatvatīḥ páthyā antárikṣyāḥ právatvantaḥ párvatā jī́radānavaḥ ||
Sloping and yielding becomes this earth for the Maruts; sloping and yielding becomes heaven for those who advance. The mid-air paths turn sloping toward them; even the mountains, ancient-giving, become inclined—so the world itself leans into their forward movement.
प्र॒वत्व॑ती । इ॒यम् । पृ॒थि॒वी । म॒रुत्ऽभ्यः॑ । प्र॒वत्व॑ती । द्यौः । भ॒व॒ति॒ । प्र॒यत्ऽभ्यः॑ । प्र॒वत्व॑तीः । प॒थ्याः॑ । अ॒न्तरि॑क्ष्याः । प्र॒वत्व॑न्तः । पर्व॑ताः । जी॒रऽदा॑नवः ॥प्रवत्वती । इयम् । पृथिवी । मरुत्भ्यः । प्रवत्वती । द्यौः । भवति । प्रयत्भ्यः । प्रवत्वतीः । पथ्याः । अन्तरिक्ष्याः । प्रवत्वन्तः । पर्वताः । जीरदानवः ॥pravatvatī | iyam | pṛthivī | marut-bhyaḥ | pravatvatī | dyauḥ | bhavati | prayat-bhyaḥ | pravatvatīḥ | pathyāḥ | antarikṣyāḥ | pravatvantaḥ | parvatāḥ | jīra-dānavaḥ