Sukta 5.54
नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कबन्धिनः । पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा ॥
नि॒युत्व॑न्तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुत॑: कब॒न्धिन॑: । पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्यु॑न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ॥
niyútvanto grāmajíto yáthā náro'ryamáṇo ná marútaḥ kabándhinaḥ | pínvanty útsaṁ yád inā́so ásvaran vy ùndanti pṛthivī́ṁ mádhvo ándhasā ||
Yoked in their ordered energies, winning the fields like conquering men, the Maruts—like Aryaman—move as binders of the bands. They swell the spring when the strong ones resound; they moisten and flood the earth with the honeyed essence of delight.
नि॒युत्व॑न्तः । ग्रा॒म॒ऽजितः॑ । यथा॑ । नरः॑ । अ॒र्य॒मणः॑ । न । म॒रुतः॑ । क॒व॒न्धिनः॑ । पिन्व॑न्ति । उत्स॑म् । यत् । इ॒नासः॑ । अस्व॑रन् । वि । उ॒न्द॒न्ति॒ । पृ॒थि॒वीम् । मध्वः॑ । अन्ध॑सा ॥नियुत्वन्तः । ग्रामजितः । यथा । नरः । अर्यमणः । न । मरुतः । कवन्धिनः । पिन्वन्ति । उत्सम् । यत् । इनासः । अस्वरन् । वि । उन्दन्ति । पृथिवीम् । मध्वः । अन्धसा ॥niyutvantaḥ | grāma-jitaḥ | yathā | naraḥ | aryamaṇaḥ | na | marutaḥ | kavandhinaḥ | pinvanti | utsam | yat | ināsaḥ | asvaran | vi | undanti | pṛthivīm | madhvaḥ | andhasā