Sukta 5.54
यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । न वोऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारमश्नुथ ॥
यन्म॑रुतः सभरसः स्वर्णर॒: सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः । न वोऽश्वा॑: श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥
yán marutaḥ sabharasaḥ svaḥnarāḥ sū́rya údite mádathā divo naraḥ | ná vo'śvāḥ śrathayántāha sísrataḥ sadyó asyā́dhvanaḥ pā́ram aśnutha ||
When you, O Maruts—impetuous, children of the luminous heaven—rejoice at the Sun’s rising, O strong ones of the heights, then your horses do not slacken as you speed: at once you reach the farther shore of the way.
यत् । म॒रु॒तः॒ । स॒ऽभ॒र॒सः॒ । स्वः॒ऽन॒रः॒ । सूर्ये॑ । उत्ऽइ॑ते । मद॑थ । दि॒वः॒ । न॒रः॒ । न । वः॒ । अश्वाः॑ । श्र॒थ॒य॒न्त॒ । अह॑ । सिस्र॑तः । स॒द्यः । अ॒स्य । अध्व॑नः । पा॒रम् । अ॒श्नु॒थ॒ ॥यत् । मरुतः । सभरसः । स्वःनरः । सूर्ये । उत्इते । मदथ । दिवः । नरः । न । वः । अश्वाः । श्रथयन्त । अह । सिस्रतः । सद्यः । अस्य । अध्वनः । पारम् । अश्नुथ ॥yat | marutaḥ | sa-bharasaḥ | svaḥ-naraḥ | sūrye | ut-ite | madatha | divaḥ | naraḥ | na | vaḥ | aśvāḥ | śrathayanta | aha | sisrataḥ | sadyaḥ | asya | adhvanaḥ | pāram | aśnutha