Sukta 5.54
न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥
न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति । नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥
ná sá jī́yate maruto ná hányate ná srédhati ná vyáthate ná ríṣyati | nā́sya rā́ya úpa dasyanti nótaya ṛ́ṣiṁ vā yáṁ rā́jānaṁ vā suṣū́datha ||
He is not conquered, O Maruts, nor is he slain; he does not fail, he does not tremble, he is not harmed—he whom you wholly set to victory. For his plenitude is not diminished, nor do his helps desert him—whether he is a seer or a king whom you drive to perfect overcoming.
न । सः । जी॒य॒ते॒ । म॒रु॒तः॒ । न । ह॒न्य॒ते॒ । न । स्रे॒ध॒ति॒ । न । व्य॒थ॒ते॒ । न । रि॒ष्य्त् । न । अ॒स्य॒ । रायः॑ । उप॑ । द॒स्य॒न्ति॒ । न । ऊ॒तयः॑ । र्षि॑म् । वा॒ । यम् । राजा॑नम् । वा॒ । सुसू॑दथ ॥न । सः । जीयते । मरुतः । न । हन्यते । न । स्रेधति । न । व्यथते । न । रिष्य्त् । न । अस्य । रायः । उप । दस्यन्ति । न । ऊतयः । र्षिम् । वा । यम् । राजानम् । वा । सुसूदथ ॥na | saḥ | jīyate | marutaḥ | na | hanyate | na | sredhati | na | vyathate | na | riṣyt | na | asya | rāyaḥ | upa | dasyanti | na | ūtayaḥ | rṣim | vā | yam | rājānam | vā | susūdatha