Sukta 5.54
अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः । अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् ॥
अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः । अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ॥
abhrā́ji śárdho maruto yád arṇasáṁ móṣathā vṛkṣáṁ kapanéva vedhasaḥ | ádha smā no arámatim sajoṣasaś cákṣuriva yántam ánu neṣathā sugám ||
Radiant is your host, O Maruts, when you strip away the flooding resistance, like a woodcutter felling a tree. Then, in harmony, lead our will of right effort—like sight guiding one who moves—along a good and open path.
अभ्रा॑जि । शर्धः॑ । म॒रु॒तः॒ । यत् । अ॒र्ण॒सम् । मोष॑थ । वृ॒क्षम् । क॒प॒नाऽइ॑व । वे॒ध॒सः॒ । अध॑ । स्म॒ । नः॒ । अ॒रम॑तिम् । स॒ऽजो॒ष॒सः॒ । चक्षुः॑ऽइव । यन्त॑म् । अनु॑ । ने॒ष॒थ॒ । सु॒ऽगम् ॥अभ्राजि । शर्धः । मरुतः । यत् । अर्णसम् । मोषथ । वृक्षम् । कपनाइव । वेधसः । अध । स्म । नः । अरमतिम् । सजोषसः । चक्षुःइव । यन्तम् । अनु । नेषथ । सुगम् ॥abhrāji | śardhaḥ | marutaḥ | yat | arṇasam | moṣatha | vṛkṣam | kapanāiva | vedhasaḥ | adha | sma | naḥ | aramatim | sa-joṣasaḥ | cakṣuḥ-iva | yantam | anu | neṣatha | su-gam