Sukta 5.54
व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः । वि यदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥
व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१॒॑न्तरि॑क्षं॒ वि रजां॑सि धूतयः । वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥
vy àktūn rudrā́ vy áhāni śíkvaso vy àntárikṣaṃ ví rájāṃsi dhūtáyaḥ | ví yád ájrān ájatha nā́va īṃ yáthā ví dúrgāṇi maruto nā́ha riṣyatha ||
You Rudras, skilled ones, you spread out the nights, you spread out the days; you shake apart the mid-world and the spaces. When you drive the unbroken plains as a boat drives through the waters, you pass through the difficult passages, O Maruts, without hurt or failure.
वि । अ॒क्तून् । रु॒द्राः॒ । वि । अहा॑नि । शि॒क्व॒सः॒ । वि । अ॒न्तरि॑क्षम् । वि । रजां॑सि । धू॒त॒यः॒ । वि । यत् । अज्रा॑न् । अज॑थ । नावः॑ । ई॒म् । य॒था॒ । वि । दुः॒ऽगानि॑ । म॒रु॒तः॒ । न । अह॑ । रि॒ष्य॒थ॒ ॥वि । अक्तून् । रुद्राः । वि । अहानि । शिक्वसः । वि । अन्तरिक्षम् । वि । रजांसि । धूतयः । वि । यत् । अज्रान् । अजथ । नावः । ईम् । यथा । वि । दुःगानि । मरुतः । न । अह । रिष्यथ ॥vi | aktūn | rudrāḥ | vi | ahāni | śikvasaḥ | vi | antarikṣam | vi | rajāṃsi | dhūtayaḥ | vi | yat | ajrān | ajatha | nāvaḥ | īm | yathā | vi | duḥ-gāni | marutaḥ | na | aha | riṣyatha