Sukta 5.54
विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । अब्दया चिन्मुहुरा ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः ॥
वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुत॑: पर्वत॒च्युत॑: । अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृत॑: स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥
vidyún-mahasaḥ naraḥ aśma-didyavaḥ vā́ta-tviṣaḥ marútaḥ párvata-cyutaḥ | abdáyā cit múhur ā́ hrāduní-vṛtaḥ stanáyad-amā́ rabhasā́ úd-ojasaḥ ||
O Maruts, luminous heroes of the lightning’s vastness, stone-flashing, wind-ardent, who make the mountains slip from their fixedness—again and again, even by the waters, you come veiled in the rolling roar, thundering at close quarters, impetuous, surging upward in force.
वि॒द्युत्ऽम॑हसः । नरः॑ । अश्म॑ऽदिद्यवः । वात॑ऽत्विषः । म॒रुतः॑ । प॒र्व॒त॒ऽच्युतः॑ । अ॒ब्द॒ऽया । चि॒त् । मुहुः॑ । आ । ह्रा॒दु॒नि॒ऽवृतः॑ । स्त॒नय॑त्ऽअमाः । र॒भ॒साः । उत्ऽओ॑जसः ॥विद्युत्महसः । नरः । अश्मदिद्यवः । वातत्विषः । मरुतः । पर्वतच्युतः । अब्दया । चित् । मुहुः । आ । ह्रादुनिवृतः । स्तनयत्अमाः । रभसाः । उत्ओजसः ॥vidyut-mahasaḥ | naraḥ | aśma-didyavaḥ | vāta-tviṣaḥ | marutaḥ | parvata-cyutaḥ | abda-yā | cit | muhuḥ | ā | hrāduni-vṛtaḥ | stanayat-amāḥ | rabhasāḥ | ut-ojasaḥ