Sukta 5.54
प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः ॥
प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युज॒: परि॑ज्रयः । सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ॥
prá vo marutas taviṣā́ udanyávo vayaḥ-vṛ́dho aśva-yújaḥ pári-jrayaḥ | sáṁ vi-dyútā dádhati vā́śati tritáḥ sváranty ā́po ’vanā́ pári-jrayaḥ ||
Forward for you, O Maruts—mighty, water-bringing, increasers of life, yoking the steeds, moving in encircling courses. They set the lightning together; Trita cries out; the waters resound from the depths, moving in their circling flow.
प्र । वः॒ । म॒रु॒तः॒ । त॒वि॒षाः । उ॒द॒न्यवः॑ । व॒यः॒ऽवृधः॑ । अ॒श्व॒ऽयुजः॑ । परि॑ऽज्रयः । सम् । वि॒ऽद्युता॑ । दध॑ति । वाश॑ति । त्रि॒तः । स्वर॑न्ति । आपः॑ । अ॒वना॑ । परि॑ऽज्रयः ॥प्र । वः । मरुतः । तविषाः । उदन्यवः । वयःवृधः । अश्वयुजः । परिज्रयः । सम् । विद्युता । दधति । वाशति । त्रितः । स्वरन्ति । आपः । अवना । परिज्रयः ॥pra | vaḥ | marutaḥ | taviṣāḥ | udanyavaḥ | vayaḥ-vṛdhaḥ | aśva-yujaḥ | pari-jrayaḥ | sam | vi-dyutā | dadhati | vāśati | tritaḥ | svaranti | āpaḥ | avanā | pari-jrayaḥ