Sukta 5.54
यूयं रयिं मरुतः स्पार्हवीरं यूयमृषिमवथ सामविप्रम् । यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥
यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् । यू॒यमर्व॑न्तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥
yūyáṃ rayíṃ marutaḥ spārhávīraṃ yūyám ṛ́ṣim avatha sā́mavipram | yūyám árvantaṃ bharatā́ya vā́jaṃ yūyáṃ dhattha rā́jānaṃ śruṣṭímantam ||
You, O Maruts, give the plenitude rich in heroic energies; you guard the seer whose inspiration is a chant of harmony. You set the swift steed and the victorious force for Bharata; you establish the king who is endowed with obedient hearing to the Truth.
यू॒यम् । र॒यिम् । म॒रु॒तः॒ । स्पा॒र्हऽवी॑रम् । यू॒यम् । ऋषि॑म् । अ॒व॒थ॒ । साम॑ऽविप्रम् । यू॒यम् । अर्व॑न्तम् । भ॒र॒ताय॑ । वाज॑म् । यू॒यम् । ध॒त्थ॒ । राजा॑नम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥यूयम् । रयिम् । मरुतः । स्पार्हवीरम् । यूयम् । ऋषिम् । अवथ । सामविप्रम् । यूयम् । अर्वन्तम् । भरताय । वाजम् । यूयम् । धत्थ । राजानम् । श्रुष्टिमन्तम् ॥yūyam | rayim | marutaḥ | spārha-vīram | yūyam | ṛṣim | avatha | sāma-vipram | yūyam | arvantam | bharatāya | vājam | yūyam | dhattha | rājānam | śruṣṭi-mantam