Sukta 5.54
युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः । न यो युच्छति तिष्यो यथा दिवोऽस्मे रारन्त मरुतः सहस्रिणम् ॥
यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः । न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥
yuṣmā́dattasya maruto vicetaso rāyáḥ syāma rathyò vayasvataḥ | na yó yúcchati tiṣyò yáthā divó ’smé rā́ranta marutaḥ sahasríṇam ||
O Maruts, luminous in discernment, may we become possessors of the riches that are your gift—fit for the chariot of the journey and full of life-force. As the heavenly Tiṣya-star is not obscured, so may the thousandfold plenitude you set in motion resound and be established in us.
यु॒ष्माऽद॑त्तस्य । म॒रु॒तः॒ । वि॒ऽचे॒त॒सः॒ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः । न । यः । युच्छ॑ति । ति॒ष्यः॑ । यथा॑ । दि॒वः । अ॒स्मे इति॑ । रो॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण॑म् ॥युष्मादत्तस्य । मरुतः । विचेतसः । रायः । स्याम । रथ्यः । वयस्वतः । न । यः । युच्छति । तिष्यः । यथा । दिवः । अस्मे इति । रोरन्त । मरुतः । सहस्रिणम् ॥yuṣmādattasya | marutaḥ | vi-cetasaḥ | rāyaḥ | syāma | rathyaḥ | vayasvataḥ | na | yaḥ | yucchati | tiṣyaḥ | yathā | divaḥ | asme iti | roranta | marutaḥ | sahasriṇam