Sukta 5.54
अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः । अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥
अंसे॑षु व ऋ॒ष्टय॑: प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभ॑: । अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्यो॒: शिप्रा॑: शी॒र्षसु॒ वित॑ता हिर॒ण्ययी॑: ॥
aṁséṣu va ṛṣṭáyaḥ pát-su khādayo vákṣas-su rukmā́ maruto ráthe śúbhaḥ | agní-bhrājaso vi-dyúto gábhastyōḥ śíprāḥ śīrṣásu ví-tatā hiraṇyáyīḥ ||
On your shoulders are the spears; on your feet the biting powers; on your chests the shining golden discs, O Maruts, and on the chariot your splendors. Fire-bright are your lightnings in your hands; golden helmets are spread upon your heads—armed with radiance for the work of victory.
अंसे॑षु । वः॒ । ऋ॒ष्टयः॑ । प॒त्ऽसु । खा॒दयः॑ । वक्षः॑ऽसु । रु॒क्माः । म॒रु॒तः॒ । रथे॑ । शुभः॑ । अ॒ग्निऽभ्रा॑जसः । वि॒ऽद्युतः॑ । गभ॑स्त्योः । शिप्राः॑ । शी॒ऋषऽसु॒ । विऽत॑ताः । हि॒र॒ण्ययीः॑ ॥अंसेषु । वः । ऋष्टयः । पत्सु । खादयः । वक्षःसु । रुक्माः । मरुतः । रथे । शुभः । अग्निभ्राजसः । विद्युतः । गभस्त्योः । शिप्राः । शीऋषसु । वितताः । हिरण्ययीः ॥aṃseṣu | vaḥ | ṛṣṭayaḥ | pat-su | khādayaḥ | vakṣaḥ-su | rukmāḥ | marutaḥ | rathe | śubhaḥ | agni-bhrājasaḥ | vi-dyutaḥ | gabhastyoḥ | śiprāḥ | śīṛṣa-su | vi-tatāḥ | hiraṇyayīḥ