Sukta 5.53
मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् । मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥
मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒: सिन्धु॒र्नि री॑रमत् । मा व॒: परि॑ ष्ठात्स॒रयु॑: पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥
mā vo rásā anitabhā kúbhā krúmur mā vaḥ síndhur ní rīramat | mā vaḥ pári ṣṭhāt saráyuḥ purīṣíṇy asmé ít sumnám astu vaḥ ||
Let not the streams—Rasā, Anitabhā, Kubhā, and Krumu—diminish your movement; let not the Sindhu turn you back; let not Sarayu, rich in plenitude, stand as a barrier around you. For us, indeed, may your gracious favour be.
मा । वः॒ । र॒सा । अनि॑तभा । कुभा॑ । क्रुमुः॑ । मा । वः॒ । सिन्धुः॑ । नि । री॒र॒म॒त् । मा । वः॒ । परि॑ । स्था॒त् । स॒रयुः॑ । पु॒री॒षिणी॑ । अ॒स्मे इति॑ । इत् । सु॒म्नम् । अ॒स्तु॒ । वः॒ ॥मा । वः । रसा । अनितभा । कुभा । क्रुमुः । मा । वः । सिन्धुः । नि । रीरमत् । मा । वः । परि । स्थात् । सरयुः । पुरीषिणी । अस्मे इति । इत् । सुम्नम् । अस्तु । वः ॥mā | vaḥ | rasā | anitabhā | kubhā | krumuḥ | mā | vaḥ | sindhuḥ | ni | rīramat | mā | vaḥ | pari | sthāt | sarayuḥ | purīṣiṇī | asme | iti | it | sumnam | astu | vaḥ