Sukta 5.53
तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् । अनु प्र यन्ति वृष्टयः ॥
तं व॒: शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् । अनु॒ प्र य॑न्ति वृ॒ष्टय॑: ॥
tám vaḥ śárdhaṃ rathā́nāṃ tvéṣaṃ gaṇáṃ mārutáṃ návyasīnām | ánu prá yanti vṛṣṭáyaḥ ||
That impetuous troop of your chariots, that Marut host ever new in its workings—following it, the rain-pours move forward.
तम् । वः॒ । शर्ध॑म् । रथा॑नाम् । त्वे॒षम् । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् । अनु॑ । प्र । य॒न्ति॒ । वृ॒ष्टयः॑ ॥तम् । वः । शर्धम् । रथानाम् । त्वेषम् । गणम् । मारुतम् । नव्यसीनाम् । अनु । प्र । यन्ति । वृष्टयः ॥tam | vaḥ | śardham | rathānām | tveṣam | gaṇam | mārutam | navyasīnām | anu | pra | yanti | vṛṣṭayaḥ