Sukta 5.53
ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा । स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः ॥
त॒तृ॒दा॒नाः सिन्ध॑व॒: क्षोद॑सा॒ रज॒: प्र स॑स्रुर्धे॒नवो॑ यथा । स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त॑न्त ए॒न्य॑: ॥
tatṛdānā́ḥ síndhavaḥ kṣódasā rájaḥ prá sasrur dhénavo yáthā | syannā́ áśvā iva ádhvano vimócané ví yád vártanta ényaḥ ||
Breaking through, the rivers stream forth, churning the spaces, like milch-cows. Like sweating horses on the road, at the loosening they turn apart—those impetuous powers.
त॒तृ॒दा॒नाः । सिन्ध॑वः । क्षोद॑सा । रजः॑ । प्र । स॒स्रुः॒ । धे॒नवः॑ । य॒था॒ । स्य॒न्नाः । अश्वाः॑ऽइव । अध्व॑नः । वि॒ऽमोच॑ने । वि । यत् । वर्त॑न्ते । ए॒न्यः॑ ॥ततृदानाः । सिन्धवः । क्षोदसा । रजः । प्र । सस्रुः । धेनवः । यथा । स्यन्नाः । अश्वाःइव । अध्वनः । विमोचने । वि । यत् । वर्तन्ते । एन्यः ॥tatṛdānāḥ | sindhavaḥ | kṣodasā | rajaḥ | pra | sasruḥ | dhenavaḥ | yathā | syannāḥ | aśvāḥ-iva | adhvanaḥ | vi-mocane | vi | yat | vartante | enyaḥ