Sukta 5.53
आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥
आ यं नर॑: सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टय॑: ॥
ā yáṁ naraḥ sudā́navo dadā́śuṣe diváḥ kóśam ácucyavuḥ | ví párjanyaṁ sṛjanti ródasī ánu dhánvanā yanti vṛṣṭáyaḥ ||
To the giver they come—these strong ones, good givers—bringing down the heavenly treasury. They release Parjanya; the two worlds open wide, and along the broad course the rains advance.
आ । यम् । नरः॑ । सु॒ऽदान॑वः । द॒दा॒शुषे॑ । दि॒वः । कोश॑म् । अचु॑च्यवुः । वि । प॒र्जन्य॑म् । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अनु॑ । धन्व॑ना । य॒न्ति॒ । वृ॒ष्टयः॑ ॥आ । यम् । नरः । सुदानवः । ददाशुषे । दिवः । कोशम् । अचुच्यवुः । वि । पर्जन्यम् । सृजन्ति । रोदसी इति । अनु । धन्वना । यन्ति । वृष्टयः ॥ā | yam | naraḥ | su-dānavaḥ | dadāśuṣe | divaḥ | kośam | acucyavuḥ | vi | parjanyam | sṛjantiḥrodasī itiḥanuḥdhanvanāḥyantiḥvṛṣṭayaḥ