Sukta 5.53
ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । श्राया रथेषु धन्वसु ॥
ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ । श्रा॒या रथे॑षु॒ धन्व॑सु ॥
yé añjíṣu yé vā́śīṣu svabhā́navaḥ srakṣú rukméṣu khādíṣu | śrāyā́ ratheṣu dhánvasu ||
They who are in the swift energies, they who are in the cries, self-luminous—on garlands, on golden ornaments, on bright adornments—glorious upon their chariots, on their wide courses.
ये । अ॒ञ्जिषु॑ । ये । वाशी॑षु । स्वऽभा॑नवः । स्र॒क्षु । रु॒क्मेषु॑ । खा॒दिषु॑ । श्रा॒याः । रथे॑षु । धन्व॑ऽसु ॥ये । अञ्जिषु । ये । वाशीषु । स्वभानवः । स्रक्षु । रुक्मेषु । खादिषु । श्रायाः । रथेषु । धन्वसु ॥ye | añjiṣu | ye | vāśīṣu | sva-bhānavaḥ | srakṣu | rukmeṣu | khādiṣu | śrāyāḥ | ratheṣu | dhanva-su