Sukta 5.53
ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे । नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥
ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ । नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥
té ma āhuḥ yá āyayúr úpa dyúbhir víbhir máde | náro máryā arepása imā́n páśyann íti stúhi ||
They told me: ‘Those who have come near with their lights and manifold powers in the ecstasy—men, young heroes, stainless—behold them; thus praise.’
ते । मे॒ । आहुः॑ । ये । आ॒ऽय॒युः । उप॑ । द्युऽभिः॑ । विऽभिः॑ । मदे॑ । नरः॑ । मर्याः॑ । अ॒रे॒पसः॑ । इ॒मान् । पश्य॑न् । इति॑ । स्तु॒हि॒ ॥ते । मे । आहुः । ये । आययुः । उप । द्युभिः । विभिः । मदे । नरः । मर्याः । अरेपसः । इमान् । पश्यन् । इति । स्तुहि ॥te | me | āhuḥ | ye | āyayuḥ | upa | dyu-bhiḥ | vi-bhiḥ | made | naraḥ | maryāḥ | arepasaḥ | imān | paśyan | iti | stuhi