Sukta 5.53
ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः । कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥
ऐतान्रथे॑षु त॒स्थुष॒: कः शु॑श्राव क॒था य॑युः । कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टय॑: स॒ह ॥
áitān ratheṣu tasthúṣaḥ káḥ śuśrāva kathā́ yayuḥ | kásmai sasruḥ sudā́se ánv ā́paya iḷā́bhir vṛṣṭáyaḥ sahá ||
These who stand upon their chariots—who has heard of them, and how they moved? To whom did they run forth? Following Sudāsa, the waters with the nourishing powers, the rains together, stream out.
आ । ए॒तान् । रथे॑षु । त॒स्थुषः॑ । कः । शु॒श्रा॒व॒ । क॒था । य॒युः॒ । कस्मै॑ । स॒स्रुः॒ । सु॒ऽदासे॑ । अनु॑ । आ॒पयः॑ । इळा॑भिः । वृ॒ष्टयः॑ । स॒ह ॥आ । एतान् । रथेषु । तस्थुषः । कः । शुश्राव । कथा । ययुः । कस्मै । सस्रुः । सुदासे । अनु । आपयः । इळाभिः । वृष्टयः । सह ॥ā | etān | ratheṣu | tasthuṣaḥ | kaḥ | śuśrāva | kathā | yayuḥ | kasmai | sasruḥ | su-dāse | anu | āpayaḥ | iḷābhiḥ | vṛṣṭayaḥ | saha