Sukta 5.53
येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् । अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥
येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् । अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥
yéna tokā́ya tánayāya dhānyáṁ bī́jaṁ váhadhve ákṣitam | asmábhyaṁ tád dhattana yád va ī́mahe rā́dho viśvā́yu sáubhagam ||
That inexhaustible seed of increase which you bear for child and offspring—grant us that: the rādhas we seek from you, the all-life felicity, the good fortune that widens the whole being.
येन॑ । तो॒काय॑ । तन॑याय । धा॒न्य॑म् । बीज॑म् । वह॑ध्वे । अक्षि॑तम् । अ॒स्मभ्य॑म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम॑हे । राधः॑ । वि॒श्वऽआयु । सौभ॑गम् ॥येन । तोकाय । तनयाय । धान्यम् । बीजम् । वहध्वे । अक्षितम् । अस्मभ्यम् । तत् । धत्तन । यत् । वः । ईमहे । राधः । विश्वआयु । सौभगम् ॥yena | tokāya | tanayāya | dhānyam | bījam | vahadhve | akṣitam | asmabhyam | tat | dhattana | yat | vaḥ | īmahe | rādhaḥ | viśva-āyu | saubhagam