Sukta 5.53
अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः । वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः । वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥
atī́yāma nidás tiraḥ svastí-bhir hitvā́ avadyám arātī́ḥ | vṛṣṭvī́ śáṁ yór ā́paḥ usrí bheṣajáṁ syā́ma marutaḥ sahá ||
May we pass beyond hostile speech and blame by your protections, casting away the fault and the crooked hostility. Having rained the peace and the wide delight, O Waters, bring the healing: may we be with the Maruts in that harmony.
अति॑ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्तिऽभिः॑ । हि॒त्वा । अ॒व॒द्यम् । अरा॑तीः । वृ॒ष्ट्वी । सम् । योः । आपः॑ । उ॒स्रि । भे॒ष॒जम् । स्याम॑ । म॒रु॒तः॒ । स॒ह ॥अति । इयाम । निदः । तिरः । स्वस्तिभिः । हित्वा । अवद्यम् । अरातीः । वृष्ट्वी । सम् । योः । आपः । उस्रि । भेषजम् । स्याम । मरुतः । सह ॥ati | iyāma | nidaḥ | tiraḥ | svasti-bhiḥ | hitvā | avadyam | arātīḥ | vṛṣṭavī | sam | yoḥ | āpaḥ | usri | bheṣajam | syāma | marutaḥ | saha