Sukta 5.53
शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः । अनु क्रामेम धीतिभिः ॥
शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑: । अनु॑ क्रामेम धी॒तिभि॑: ॥
śárdhaṁ-śardhaṁ va eṣā́ṁ vrā́taṁ-vrātaṁ gaṇáṁ-gaṇaṁ suśastí-bhiḥ | ánu krāmema dhītí-bhiḥ ||
Each troop and each troop of them, each host and each host, each band and each band—may we follow with right-formed praises and illumined thoughts, step by step keeping pace with their advancing power.
शर्ध॑म्ऽशर्धम् । वः॒ । ए॒षा॒म् । व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अनु॑ । क्रा॒मे॒म॒ । धी॒तिऽभिः॑ ॥शर्धम्शर्धम् । वः । एषाम् । व्रातम्व्रातम् । गणम्गणम् । सुशस्तिभिः । अनु । क्रामेम । धीतिभिः ॥śardham-śardham | vaḥ | eṣām | vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | anu | krāmema | dhīti-bhiḥ