Sukta 5.5
वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः । इमं नो यज्ञमा गतम् ॥
वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः । इ॒मं नो॑ य॒ज्ञमा ग॑तम् ॥
vā́tasya pátmann īḷitā́ daivyā́ hotārā mánuṣaḥ | imáṃ no yajñám ā́ gatam ||
O divine Hotars, praised in the path of the Wind and serving the human, come to this our sacrifice.
वात॑स्य । पत्म॑न् । ई॒ळि॒ता । दैव्या॑ । होता॑रा । मनु॑षः । इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒त॒म् ॥वातस्य । पत्मन् । ईळिता । दैव्या । होतारा । मनुषः । इमम् । नः । यज्ञम् । आ । गतम् ॥vātasya | patman | īḷitā | daivyā | hotārā | manuṣaḥ | imam | naḥ | yajñam | ā | gatam