Sukta 5.5
ऊर्णम्रदा वि प्रथस्वाभ्यर्का अनूषत । भवा नः शुभ्र सातये ॥
ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत । भवा॑ नः शुभ्र सा॒तये॑ ॥
ūrṇámradā́ ví práthasvābhyàrká anūṣata | bhávā naḥ śúbhra sātáye ||
O luminous power that softens and releases what is knotted within, widen thyself; our hymns have pressed toward thee. Become for us the bright helper for the winning of the true gain.
ऊर्ण॑ऽम्रदाः॑ । वि । प्र॒थ॒स्व॒ । अ॒भि । अ॒र्काः । अ॒नू॒ष॒त॒ । भव॑ । नः॒ । शु॒भ्र॒ । सा॒तये॑ ॥ऊर्णम्रदाः । वि । प्रथस्व । अभि । अर्काः । अनूषत । भव । नः । शुभ्र । सातये ॥ūrṇa-mradāḥ | vi | prathasva | abhi | arkāḥ | anūṣata | bhava | naḥ | śubhra | sātaye