Sukta 5.47
वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति । उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ ॥
वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति । उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यच्छ॑ ॥
ví tanvate dhíyo asmai apā́ṃsi vástrā putrā́ya mātáro vayanti | upa-prakṣé vṛ́ṣaṇo mód amānā divás pathā́ vádhvo yánty áccha ||
For him the thoughts are spread out and the works are woven: the Mothers weave garments for the son. Near the vigorous one they rejoice; along the path of heaven the brides move toward him—powers of formation coming to clothe the growing divine birth within us.
वि । त॒न्व॒ते॒ । धियः॑ । अ॒स्मै॒ । अपां॑सि । वस्त्रा॑ । पु॒त्राय॑ । मा॒तरः॑ । व॒य॒न्ति॒ । उ॒प॒ऽप्र॒क्षे । वृष॑णः । मोद॑मानाः । दि॒वः । प॒था । व॒ध्वः॑ । य॒न्ति॒ । अच्छ॑ ॥वि । तन्वते । धियः । अस्मै । अपांसि । वस्त्रा । पुत्राय । मातरः । वयन्ति । उपप्रक्षे । वृषणः । मोदमानाः । दिवः । पथा । वध्वः । यन्ति । अच्छ ॥vi | tanvate | dhiyaḥ | asmai | apāṃsi | vastrā | putrāya | mātaraḥ | vayanti | upa-prakṣe | vṛṣaṇaḥ | modamānāḥ | divaḥ | pathā | vadhvaḥ | yanti | accha