Sukta 5.47
तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् । अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥
तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥
tád astu mitrā́varuṇā tád agne śáṃ yór asmábhyam idám astu śastám | aśīmáhi gā́dham utá pratíṣṭhāṃ námo divé bṛhaté sā́danāya ||
Let that be fulfilled, O Mitra and Varuṇa; let that be fulfilled, O Agni: may this be for us a peace and a gladness that is truly worthy of praise. We seek a firm foundation and a safe passage; obeisance to the vast Heaven, the great seat of the Truth.
तत् । अ॒स्तु॒ । मि॒त्रा॒व॒रु॒णा॒ । तत् । अ॒ग्ने॒ । शम् । योः । अ॒स्मभ्य॑म् । इ॒दम् । अ॒स्तु॒ । श॒स्तम् । अ॒शी॒महि॑ । गा॒धम् । उ॒त । प्र॒ति॒ऽस्थाम् । नमः॑ । दि॒वे । बृ॒ह॒ते । साद॑नाय ॥तत् । अस्तु । मित्रावरुणा । तत् । अग्ने । शम् । योः । अस्मभ्यम् । इदम् । अस्तु । शस्तम् । अशीमहि । गाधम् । उत । प्रतिस्थाम् । नमः । दिवे । बृहते । सादनाय ॥tat | astu | mitrāvaruṇā | tat | agne | śam | yoḥ | asmabhyam | idam | astu | śastam | aśīmahi | gādham | uta | prati-sthām | namaḥ | dive | bṛhate | sādanāya