Sukta 5.47
इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः । द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू ॥
इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चर॑न्ति॒ यन्न॒द्य॑स्त॒स्थुराप॑: । द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सब॑न्धू ॥
idáṃ vápur ni-vácanaṃ janā́saś cáranti yán nádyas tasthúr ā́paḥ | dvé yád īṃ bibhṛtó mātúr anyé ihéha jāté yamyā́ sàbandhū ||
This form, this deep declaration—people move within it: the rivers have stood as waters. When two bear it from the Mother, the others are born here and here as twin-related kin. Thus the one reality appears divided in movement, yet bound by an inner kinship of origin.
इ॒दम् । वपुः॑ । नि॒ऽवच॑नम् । जनासः॑ । चर॑न्ति । यत् । न॒द्यः॑ । त॒स्थुः । आपः॑ । द्वे इति॑ । यत् । ई॒म् । बि॒भृ॒तः । मा॒तुः । अ॒न्ये । इ॒हऽइ॑ह । जा॒ते इति॑ । य॒म्या॑ । सब॑न्धू॒ इति॒ सऽब॑न्धू ॥इदम् । वपुः । निवचनम् । जनासः । चरन्ति । यत् । नद्यः । तस्थुः । आपः । द्वे इति । यत् । ईम् । बिभृतः । मातुः । अन्ये । इहइह । जाते इति । यम्या । सबन्धू इति सबन्धू ॥idam | vapuḥ | ni-vacanam | janāsaḥ | caranti | yat | nadyaḥ | tasthuḥ | āpaḥ | dve iti | yat | īm | bibhṛtaḥ | mātuḥ | anye | iha-iha | jāte iti | yamyā | sabandhūitisa-bandhū