Sukta 5.47
चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते । त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् ॥
च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं॑ च॒रसे॑ धापयन्ते । त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ॥
catvā́ra īṃ bibhrati kṣéma-yanto dáśa gárbhaṃ cárase dhāpayante | tri-dhā́tavaḥ paramā́ asya gā́vo diváś caranti pári sadyó ántān ||
Four uphold it, bringing security; ten nurture the embryo for its moving life. Threefold are its supreme cows of light; they move through heaven, swiftly encompassing the boundaries—rays of knowledge circulating to complete the formation.
च॒त्वारः॑ । ई॒म् । बि॒भ्र॒ति॒ । क्षे॒म॒ऽयन्तः॑ । दश॑ । गर्भ॑म् । च॒रसे॑ । धा॒प॒य॒न्ते॒ । त्रि॒ऽधात॑वः । प॒र॒माः । अ॒स्य॒ । गावः॑ । दि॒वः । च॒र॒न्ति॒ । परि॑ । स॒द्यः । अन्ता॑न् ॥चत्वारः । ईम् । बिभ्रति । क्षेमयन्तः । दश । गर्भम् । चरसे । धापयन्ते । त्रिधातवः । परमाः । अस्य । गावः । दिवः । चरन्ति । परि । सद्यः । अन्तान् ॥catvāraḥ | īm | bibhrati | kṣema-yantaḥ | daśa | garbham | carase | dhāpayante | tri-dhātavaḥ | paramāḥ | asya | gāvaḥ | divaḥ | caranti | pari | sadyaḥ | antān