Sukta 5.47
उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश । मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ ॥
उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑त॒: पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥
ukṣā́ samudró aruṣáḥ su-párṇaḥ pū́rvasya yóniṃ pitúr ā́ viveśa | mádhye divó ní-hitaḥ pṛ́śnir áśmā ví cakrame rájasas pā́ty ántau ||
The Bull, the ocean, the ruddy fair-winged one, enters the ancient womb of the Father. Placed in the mid-heaven is the speckled stone; it turns and moves, guarding the two ends of the world-space—holding the limits so the truth-order may stand.
उ॒क्षा । स॒मु॒द्रः । अ॒रु॒षः । सु॒ऽप॒र्णः । पूर्व॑स्य । योनि॑म् । पि॒तुः । आ । वि॒वे॒श॒ । मध्ये॑ । दि॒वः । निऽहि॑तः । पृश्निः॑ । अश्मा॑ । वि । च॒क्र॒मे॒ । रज॑सः । पा॒ति॒ । अन्तौ॑ ॥उक्षा । समुद्रः । अरुषः । सुपर्णः । पूर्वस्य । योनिम् । पितुः । आ । विवेश । मध्ये । दिवः । निहितः । पृश्निः । अश्मा । वि । चक्रमे । रजसः । पाति । अन्तौ ॥ukṣā | samudraḥ | aruṣaḥ | su-parṇaḥ | pūrvasya | yonim | pituḥ | ā | viveśa | madhye | divaḥ | ni-hitaḥ | pṛśniḥ | aśmā | vi | cakrame | rajasaḥ | pāti | antau