Sukta 5.47
अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥
अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म् । अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वत॑: सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्था॑: ॥
ajirā́sas tád apa ī́yamānā ātásthivāṃso amṛ́tasya nā́bhim | anantā́sa urávo viśvátas sīm pári dyā́vā-pṛthivī́ yanti pánthāḥ ||
Swift-moving, they go toward that goal; they have taken their stand at the navel of immortality. Endless and wide, the paths move everywhere, encompassing Heaven and Earth—channels by which the soul travels in the vast order.
अ॒जि॒रासः॑ । तत्ऽअ॑पः । ईय॑मानाः । आ॒त॒स्थि॒ऽवांसः॑ । अ॒मृत॑स्य । नाभि॑म् । अ॒न॒न्तासः॑ । उ॒रवः॑ । वि॒श्वतः॑ । सी॒म् । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । पन्थाः॑ ॥अजिरासः । तत्अपः । ईयमानाः । आतस्थिवांसः । अमृतस्य । नाभिम् । अनन्तासः । उरवः । विश्वतः । सीम् । परि । द्यावापृथिवी इति । यन्ति । पन्थाः ॥ajirāsaḥ | tat-apaḥ | īyamānāḥ | ātasthi-vāṃsaḥ | amṛtasya | nābhim | anantāsaḥ | uravaḥ | viśvataḥ | sīm | pari | dyāvāpṛthivī iti | yanti | panthāḥ