Sukta 5.45
आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे । रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥
आ सूर्यो॑ यातु स॒प्ताश्व॒: क्षेत्रं॒ यद॑स्योर्वि॒या दी॑र्घया॒थे । र॒घुः श्ये॒नः प॑तय॒दन्धो॒ अच्छा॒ युवा॑ क॒विर्दी॑दय॒द्गोषु॒ गच्छ॑न् ॥
ā́ sū́ryo yātu saptā́śvaḥ kṣétram yád asyorviyā́ dīrghayā́the | raghúḥ śyénáḥ patayad ándho ácchā yúvā kavír dī́dayad góṣu gácchan ||
Let Sūrya come, the seven-horsed, to the field that is his wide realm and long course. The swift falcon flies to the Soma-rapture; the young seer shines as he goes among the Rays (cows).
आ । सूर्यः॑ । या॒तु॒ । स॒प्तऽअ॑श्वः । क्षेत्र॑म् । यत् । अ॒स्य॒ । उ॒र्वि॒या । दी॒र्घ॒ऽया॒थे । र॒घुः । श्ये॒नः । प॒त॒य॒त् । अन्धः॑ । अच्छ॑ । युवा॑ । क॒विः । दी॒द॒य॒त् । गोषु॑ । गच्छ॑न् ॥आ । सूर्यः । यातु । सप्तअश्वः । क्षेत्रम् । यत् । अस्य । उर्विया । दीर्घयाथे । रघुः । श्येनः । पतयत् । अन्धः । अच्छ । युवा । कविः । दीदयत् । गोषु । गच्छन् ॥ā | sūryaḥ | yātu | sapta-aśvaḥ | kṣetram | yat | asya | urviyā | dīrgha-yāthe | raghuḥ | śyenaḥ | patayat | andhaḥ | accha | yuvā | kaviḥ | dīdayat | goṣu | gacchan