Sukta 5.45
आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः । उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥
आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः । उ॒द्ना न नाव॑मनयन्त॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥
ā́ sū́ryo aruhac chukrám árṇo’́yukta yád dháritó vīta-pṛ́ṣṭhāḥ | udnā́ ná nā́vam anayanta dhī́rā āśṛṇvatī́r ā́po arvā́g atiṣṭhan ||
Sūrya has mounted the bright flood; when he yoked the tawny steeds with shining backs. As wise ones bring a boat by water, so the listening Waters stood near, moving hither—supporting the passage of the seeker.
आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः । उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । अयुक्त । यत् । हरितः । वीतपृष्ठाः । उद्ना । न । नावम् । अनयन्त । धीराः । आशृण्वतीः । आपः । अर्वाक् । अतिष्ठन् ॥ā | sūryaḥ | aruhat | śukram | arṇaḥ | ayukta | yat | haritaḥ | vīta-pṛṣṭhāḥ | udnā | na | nāvam | anayanta | dhīrāḥ | āśṛṇvatīḥ | āpaḥ | arvāk | atiṣṭhan