Sukta 5.45
अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः । ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार ॥
अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः । ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा॑नि स॒त्याङ्गि॑राश्चकार ॥
anū́nod átra hástayato ádrir ā́rcan yéna dáśa mā́sō nava-gvā́ḥ | ṛtáṃ yatī́ sarámā gā́ avindad víśvāni satyā́ aṅgírāś cakāra ||
Here the pressing-stone was set in motion by the hands; by that the Navagvas sang through the ten months. Moving in the Truth, Saramā found the Rays (the Cows); the Aṅgirases made all things true and accomplished.
अनू॑नोत् । अत्र॑ । हस्त॑ऽयतः । अद्रिः॑ । आर्च॑न् । येन॑ । दश॑ । मा॒सः । नव॑ऽग्वाः । ऋ॒तम् । य॒ती । स॒रमा॑ । गाः । अ॒वि॒न्द॒त् । विश्वा॑नि । स॒त्या । अङ्गि॑राः । च॒का॒र॒ ॥अनूनोत् । अत्र । हस्तयतः । अद्रिः । आर्चन् । येन । दश । मासः । नवग्वाः । ऋतम् । यती । सरमा । गाः । अविन्दत् । विश्वानि । सत्या । अङ्गिराः । चकार ॥anūnot | atra | hasta-yataḥ | adriḥ | ārcan | yena | daśa | māsaḥ | nava-gvāḥ | ṛtam | yatī | saramā | gāḥ | avindat | viśvāni | satyā | aṅgirāḥ | cakāra