Sukta 5.45
एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः । यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम् ॥
एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः । यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्व॒ङ्कुरापा॒ पुरी॑षम् ॥
etā́ dhíyaṃ kṛṇávāmā sakhāyó’pa yā́ mātā́ṃ ṛṇutá vrajáṃ góḥ | yayā́ mánur viśiśipráṃ jigā́ya yayā́ vaṇíg vaṅkúr ā́pa purī́ṣam ||
Let us, comrades, fashion this inspired understanding—by which the Mother opens the pen of the Light. By it Manu wins the clear-seeing force; by it the seeker-merchant Vaṅku attains the rich plenitude.
आ । इ॒त॒ । धिय॑म् । कृ॒णवा॑म । स॒खा॒यः॒ । अप॑ । या । मा॒ता । ऋ॒णु॒त । व्र॒जम् । गोः । यया॑ । मनुः॑ । वि॒शि॒ऽशि॒प्रम् । जि॒गाय॑ । यया॑ । व॒णिक् । व॒ङ्कुः । आप॑ । पुरी॑षम् ॥आ । इत । धियम् । कृणवाम । सखायः । अप । या । माता । ऋणुत । व्रजम् । गोः । यया । मनुः । विशिशिप्रम् । जिगाय । यया । वणिक् । वङ्कुः । आप । पुरीषम् ॥ā | ita | dhiyam | kṛṇavāma | sakhāyaḥ | apa | yā | mātā | ṛṇuta | vrajam | goḥ | yayā | manuḥ | viśi-śipram | jigāya | yayā | vaṇik | vaṅkuḥ | āpa | purīṣam