Sukta 5.45
सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै । उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥
सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ । उ॒क्थेभि॒र्हि ष्मा॑ क॒वय॑: सुय॒ज्ञा आ॒विवा॑सन्तो म॒रुतो॒ यज॑न्ति ॥
sūktébhiḥ vo vácobhir deva-júṣṭair índrā nv àgnī́ aváse huvádhyai | ukthébhir hí ṣmā kaváyaḥ su-yajñā́ ā́vivāsanto marúto yájanti ||
With well-spoken words, god-accepted, we call now Indra and Agni for help and for the bringing of their force. For with hymns of affirmation the seers, good in sacrifice, adore and worship the Maruts.
सु॒ऽउ॒क्तेभिः॑ । वः॒ । वचः॑ऽभिः । दे॒वऽजु॑ष्टैः । इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑से । हु॒वध्यै॑ । उ॒क्थेभिः । हि । स्म॒ । क॒वयः॑ । स्ऽय॒ज्ञाः । आ॒ऽविवा॑सन्तः । म॒रुतः॑ । यज॑न्ति ॥सुउक्तेभिः । वः । वचःभिः । देवजुष्टैः । इन्द्रा । नु । अग्नी इति । अवसे । हुवध्यै । उक्थेभिः । हि । स्म । कवयः । स्यज्ञाः । आविवासन्तः । मरुतः । यजन्ति ॥su-uktebhiḥ | vaḥ | vacaḥ-bhiḥ | deva-juṣṭaiḥ | indrā | nu | agnī iti | avase | huvadhyai | ukthebhiḥ | hi | sma | kavayaḥ | s-yajñāḥ | āvivāsantaḥ | marutaḥ | yajanti