Sukta 5.45
अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय । वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥
अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ । वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑सन्तो दसयन्त॒ भूम॑ ॥
asmā́ ukthā́ya párvatasya gárbho mahī́nāṃ jánuṣe pū́rvyāya | ví párvato jihī́ta sā́dhata dyáur ā́vivāsanto dasayanta bhū́ma ||
For this hymn of affirmation, the hidden womb of the mountain—ancient in birth among the great ones—opens out. The mountain gapes wide; Heaven is set to its right accomplishment; adoring, they make the vast foundation yield.
अ॒स्मै । उ॒क्थाय॑ । पर्व॑तस्य । गर्भः॑ । म॒हीना॑म् । ज॒नुषे॑ । पू॒र्व्याय॑ । वि । पर्व॑तः । जिही॑त । साध॑त । द्यौः । आ॒ऽविवा॑सन्तः । द॒स॒य॒न्त॒ । भूम॑ ॥अस्मै । उक्थाय । पर्वतस्य । गर्भः । महीनाम् । जनुषे । पूर्व्याय । वि । पर्वतः । जिहीत । साधत । द्यौः । आविवासन्तः । दसयन्त । भूम ॥asmai | ukthāya | parvatasya | garbhaḥ | mahīnām | januṣe | pūrvyāya | vi | pavartaḥ | jihīta | sādhata | dyauḥ | āvivāsantaḥ | dasayanta | bhūma