Sukta 5.45
वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् । धन्वर्णसो नद्यः खादोअर्णाः स्थूणेव सुमिता दृंहत द्यौः ॥
वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् । धन्व॑र्णसो न॒द्य१॒॑: खादो॑अर्णा॒: स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥
ví sū́ryo amatíṃ ná śríyaṃ sādór vā́d gavā́ṃ mātā́ jānatī́ gāt | dhánvārṇaso nadyàḥ khā́dorṇāḥ sthū́ṇeva sumitā́ dṛṃhata dyáuḥ ||
The Sun spreads out the splendour as one dispels bewilderment; from the dwelling the knowing Mother of the cows moves forth. Like rivers with wide waters, like channels with rushing streams, the Heaven is made firm, as a pillar well set.
वि । सूर्यः॑ । अ॒मति॑म् । न । श्रिय॑म् । सा॒त् । आ । ऊ॒र्वात् । गवा॑म् । मा॒ता । जा॒न॒ती । गा॒त् । धन्व॑ऽअर्णसः । न॒द्यः॑ । खादः॑ऽअर्णाः । स्थूणा॑ऽइव । सुऽमि॑ता । दृं॒ह॒त॒ । द्यौः ॥वि । सूर्यः । अमतिम् । न । श्रियम् । सात् । आ । ऊर्वात् । गवाम् । माता । जानती । गात् । धन्वअर्णसः । नद्यः । खादःअर्णाः । स्थूणाइव । सुमिता । दृंहत । द्यौः ॥vi | sūryaḥ | amatim | na | śriyam | sāt | ā | ūrvāt | gavām | mātā | jānatī | gāt | dhanva-arṇasaḥ | nadyaḥ | khādaḥ-arṇāḥ | sthūṇāiva | su-mitā | dṛṃhata | dyauḥ