Sukta 5.45
विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः । अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥
वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः । अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥
vidā́ divó vi-syán ádrim uktháir āyatyā́ uṣáso arcíno guḥ | ápāvṛta vrajínīr út svàr gād ví dúro mā́nuṣīr devá ā́vaḥ ||
Knowing the heaven, breaking open the stone by the hymns, the flaming Dawns came, advancing. They opened out the pen and rose upward to the luminous world; the god opened wide the human doors.
वि॒दाः । दि॒वः । वि॒ऽस्यन् । अद्रि॑म् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षसः॑ । अ॒र्चिनः॑ । गुः॒ । अप॑ । अ॒वृ॒त॒ । व्र॒जिनीः॑ । उत् । स्वः॑ । गा॒त् । वि । दुरः॑ । मानु॑षीः । दे॒वः । आ॒व॒रित्या॑वः ॥विदाः । दिवः । विस्यन् । अद्रिम् । उक्थैः । आयत्याः । उषसः । अर्चिनः । गुः । अप । अवृत । व्रजिनीः । उत् । स्वः । गात् । वि । दुरः । मानुषीः । देवः । आवरित्यावः ॥vidāḥ | divaḥ | vi-syan | adrim | ukthaiḥ | āyatyāḥ | uṣasaḥ | arcinaḥ | guḥ | apa | avṛta | vrajinīḥ | ut | svaḥ | gāt | vi | duraḥ | mānuṣīḥ | devaḥ | āvar ity āvaḥ