Sukta 5.45
धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः । अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः ॥
धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्दश॑ मा॒सो नव॑ग्वाः । अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंह॑: ॥
dhíyaṃ vo apsú dadhīṣe svaḥ-sā́ṃ yayā́taran dáśa mā́sō nava-gvā́ḥ | ayā́ dhiyā́ syāma devá-gopā ayā́ dhiyā́ tuturyā́mā́ty áṃhaḥ ||
This inspired vision I place for you in the Waters, a light-winning dhī by which the Navagvas crossed through the ten months. By this dhī may we be guarded by the Gods; by this dhī may we pass beyond all distress and crookedness.
धिय॑म् । वः॒ । अ॒प्ऽसु । द॒धि॒षे॒ । स्वः॒ऽसाम् । यया॑ । अत॑रन् । दश॑ । मा॒सः । नव॑ऽग्वाः । अ॒या । धि॒या । स्या॒म॒ । दे॒वऽगो॑पाः । अ॒या । धि॒या । तु॒तु॒र्या॒म॒ । अति॑ । अंहः॑ ॥धियम् । वः । अप्सु । दधिषे । स्वःसाम् । यया । अतरन् । दश । मासः । नवग्वाः । अया । धिया । स्याम । देवगोपाः । अया । धिया । तुतुर्याम । अति । अंहः ॥dhiyam | vaḥ | ap-su | dadhiṣe | svaḥ-sām | yayā | ataran | daśa | māsaḥ | nava-gvāḥ | ayā | dhiyā | syāma | deva-gopāḥ | ayā | dhiyā | tuturyāma | ati | aṃhaḥ