Sukta 5.44
समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता । अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥
स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता । अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥
samudrám āsā́m áva tasthe agrimā́ ná riṣyati sávanam yásminn ā́yatā | átrā ná hā́rdi kravaṇásya rejate yátrā matír vidyáte pū́tabandhanī ||
The foremost has stood down upon their ocean-depth; the pressing in which they are gathered is not harmed. Here the heart does not tremble with the eater’s fear, where the thought is found—purified, bound in right restraint.
स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता । अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥समुद्रम् । आसाम् । अव । तस्थे । अग्रिमा । न । रिष्यति । सवनम् । यस्मिन् । आयता । अत्र । न । हार्दि । क्रवणस्य । रेजते । यत्र । मतिः । विद्यते । पूतबन्धनी ॥samudram | āsām | ava | tasthe | agrimā | na | riṣyati | savanam | yasmin | āyatā | atra | na | hārdi | kravaṇasya | rejate | yatra | matiḥ | vidyate | pūta-bandhanī