Sukta 5.44
ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते । यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥
ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते । या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥
jyā́yāṃsam asyá yatúnasya ketúnā ṛṣi-svaráṃ cárati yā́su nā́ma te | yādṛ́śmin dhā́yi tám apasyáyā vidád yá u svayáṃ váhate só áraṃ karat ||
Greater than this sorcerous force is his sign: he moves with the seer’s tone among those powers that bear your name. He who by effective work discovers that in which it is set—he who himself carries it—he indeed makes it sufficient and right.
ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ । या॒दृश्मि॑न् । धा॒यि॒ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊँ॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥ज्यायांसम् । अस्य । यतुनस्य । केतुना । ऋषिस्वरम् । चरति । यासु । नाम । ते । यादृश्मिन् । धायि । तम् । अपस्यया । विदत् । यः । ऊँ इति । स्वयम् । वहते । सः । अरम् । करत् ॥jyāyāṃsam | asya | yatunasya | ketunā | ṛṣi-svaram | carati | yāsu | nāma | te | yādṛśmin | dhāyi | tam | apasyayā | vidat | yaḥ | oṃ iti | svayam | vahate | saḥ | aram | karat