Sukta 5.44
वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः । घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥
वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृध॑: समर्य॒ता मन॑सा॒ सूर्य॑: क॒विः । घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥
véty ágruḥ jánivān vā́ áti spṛ́dhaḥ samaryatā́ mánasā sū́ryaḥ kavíḥ | ghráṃsaṃ rákṣantaṃ pári viśvátó gáyam asmā́kaṃ śárma vanavat svā́vasuḥ ||
He advances, the eager one, newly born, surpassing the rivalries; by the mind’s harmony the Sun, the seer-poet. Guarding the burning heat all around, he wins for us a home of peace; by his own riches of power, may he make our shelter grow.
वेति॑ । अग्रुः॑ । जनि॑ऽवान् । वै । अति॑ । स्पृधः॑ । स॒ऽम॒र्य॒ता । मन॑सा । सूर्यः॑ । क॒विः । घ्रं॒सम् । रक्ष॑न्तम् । परि॑ । वि॒श्वतः॑ । गय॑म् । अ॒स्माक॑म् । शर्म॑ । व॒न॒व॒त् । स्वऽव॑सुः ॥वेति । अग्रुः । जनिवान् । वै । अति । स्पृधः । समर्यता । मनसा । सूर्यः । कविः । घ्रंसम् । रक्षन्तम् । परि । विश्वतः । गयम् । अस्माकम् । शर्म । वनवत् । स्ववसुः ॥veti | agruḥ | jani-vān | vai | ati | spṛdhaḥ | sa-maryatā | manasā | sūryaḥ | kaviḥ | ghraṃsam | rakṣantam | pari | viśvataḥ | gayam | asmākam | śarma | vanavat | sva-vasuḥ