Sukta 5.44
प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः । सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥
प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृध॑: । सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भि॒: क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥
prá va ete suyújo yā́mann iṣṭáye nī́cīr amúṣmai yamyá ṛtā́vṛdhaḥ | suyántubhiḥ sarvaśā́sair abhī́śubhiḥ krívir nā́māni praváṇe muṣāyati ||
Forward go these well-yoked powers on the journey for the desired fulfilment, bending downward for that one, increasing by the Truth. With guiding reins, with all disciplines, with the controlling rays—Krivi in the slope steals away the names (the fixed labels).
प्र । वः॒ । ए॒ते । सु॒ऽयुजः॑ । याम॑न् । इ॒ष्टये॑ । नीचीः॑ । अ॒मुष्मै॑ । य॒म्यः॑ । ऋ॒त॒ऽवृधः॑ । सु॒यन्तु॑ऽभिः । स॒र्व॒ऽशा॒सैः । अ॒भीशु॑ऽभिः । क्रिविः॑ । नामा॑नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥प्र । वः । एते । सुयुजः । यामन् । इष्टये । नीचीः । अमुष्मै । यम्यः । ऋतवृधः । सुयन्तुभिः । सर्वशासैः । अभीशुभिः । क्रिविः । नामानि । प्रवणे । मुषायति ॥pra | vaḥ | ete | su-yujaḥ | yāman | iṣṭaye | nīcīḥ | amuṣmai | yamyaḥ | ṛta-vṛdhaḥ | suyantu-bhiḥ | sarva-śāsaiḥ | abhīśu-bhiḥ | kriviḥ | nāmāni | pravaṇe | muṣāyati