Sukta 5.44
अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः । प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥
अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातु॒: स होता॑ सहो॒भरि॑: । प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥
átyaṃ havíḥ sacate sác ca dhā́tu cā́riṣṭagātuḥ sá hótā sahobháriḥ | prá-sarsrāṇó ánu barhír vṛ́ṣā śíśur mádhye yúvājáró vi-srúhā hitáḥ ||
The steed of the offering joins the true foundation; moving by uninjured paths, he is the Hotar, the bearer of force. Rushing along the sacred grass, the Bull—child in the midst, ever-young and ageless—he is set there, streaming out in many currents.
अत्य॑म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टऽगातुः । सः । होता॑ । स॒हः॒ऽभरिः॑ । प्र॒ऽसर्स्रा॑णः । अनु॑ । ब॒र्हिः । वृषा॑ । शिशुः॑ । मध्ये॑ । युवा॑ । अ॒जरः॑ । वि॒ऽस्रुहा॑ । हि॒तः ॥अत्यम् । हविः । सचते । सत् । च । धातु । च । अरिष्टगातुः । सः । होता । सहःभरिः । प्रसर्स्राणः । अनु । बर्हिः । वृषा । शिशुः । मध्ये । युवा । अजरः । विस्रुहा । हितः ॥atyam | haviḥ | sacate | sat | ca | dhātu | ca | ariṣta-gātuḥ | saḥ | hotā | sahaḥ-bhariḥ | pra-sarsrāṇaḥ | anu | barhiḥ | vṛṣā | śiśuḥ | madhye | yuvā | ajaraḥ | vi-sruhā | hitaḥ