Sukta 5.44
श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते । सुगोपा असि न दभाय सुक्रतो परो मायाभिॠत आस नाम ते ॥
श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ । सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑ॠ॒त आ॑स॒ नाम॑ ते ॥
śríye sudṛ́śīr úparasya yā́ḥ svàr virocámānaḥ kakúbhām acódate | sugópā asi ná dábhāya sukrato paró māyā́bhiḥ ṛté āsa nā́ma te ||
For the splendour you set in motion the fair-seeing heights of the upper realm, shining out in the svar-world. You are a good guardian—hard to assail, O power of luminous will; beyond the deceits, founded in the Truth, your very name abides.
श्रि॒ये । सु॒ऽदृशीः॑ । उप॑रस्य । याः । स्वः॑ । वि॒ऽरोच॑मानः । क॒कुभा॑म् । अ॒चो॒दते॑ । सु॒ऽगो॒पाः । अ॒सि॒ । न । दभा॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । प॒रः । मा॒याभिः॑ । ऋ॒ते । आ॒स॒ । नाम॑ । ते॒ ॥श्रिये । सुदृशीः । उपरस्य । याः । स्वः । विरोचमानः । ककुभाम् । अचोदते । सुगोपाः । असि । न । दभाय । सुक्रतो इति सुक्रतो । परः । मायाभिः । ऋते । आस । नाम । ते ॥śriye | su-dṛśīḥ | uparasya | yāḥ | svaḥ | vi-rocamānaḥ | kakubhām | acodate | su-gopāḥ | asi | na | dabhāya | sukrato itisu-krato | paraḥ | māyābhiḥ | ṛte | āsa | nāma | te