Sukta 5.44
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् । प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥
táṃ pratnáthā pū́rvathā víśvathemáthā jyéṣṭhatātim barhíṣadaṃ svàr-vidám | pratīcīnáṃ vṛ́janaṃ dohase girā́śuṃ jáyantam ánu yā́su várdhase ||
Him we call in the ancient way, in the first way, in every way and now—him, the most elder greatness, seated on the sacred grass, the finder of the Sun-worlds. Turning towards us, the wide-striding one, we milk him with the word: swift, victorious—along those paths in which you increase.
तम् । प्र॒त्नऽथा॑ । पू॒र्वऽथा॑ । वि॒श्वऽथा॑ । इ॒म्ऽअथा॑ । ज्ये॒ष्ठऽता॑तिम् । ब॒र्हि॒ऽसद॑म् । स्वः॒ऽविद॑म् । प्र॒ती॒ची॒नम् । वृ॒जन॑म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अनु॑ । यासु॑ । वर्ध॑से ॥तम् । प्रत्नथा । पूर्वथा । विश्वथा । इम्अथा । ज्येष्ठतातिम् । बर्हिसदम् । स्वःविदम् । प्रतीचीनम् । वृजनम् । दोहसे । गिरा । आशुम् । जयन्तम् । अनु । यासु । वर्धसे ॥tam | pratna-thā | pūrva-thā | viśva-thā | im-athā | jyeṣṭha-tātim | barhi-sadam | svaḥ-vidam | pratīcīnam | vṛjanam | dohase | girā | āśum | jayantam | anu | yāsu | vardhase