Sukta 5.44
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥
यो जा॒गार॒ तमृच॑: कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति । यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
yó jāgā́ra tám ṛ́caḥ kāmayante yó jāgā́ra tám u sāmā́ni yanti | yó jāgā́ra tám ayám sóma āha távā́ham asmi sakhyé nyòkāḥ ||
He who has awakened—him the Rik-words desire; he who has awakened—toward him the Sāman-chants move. He who has awakened—of him this Soma speaks: ‘I am yours in friendship, dwelling with you.’
यः । जा॒गार॑ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । यः । जा॒गार॑ । तम् । ऊँ॒ इति॑ । सामा॑नि । य॒न्ति॒ । यः । जा॒गार॑ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥यः । जागार । तम् । ऋचः । कामयन्ते । यः । जागार । तम् । ऊँ इति । सामानि । यन्ति । यः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निओकाः ॥yaḥ | jāgāra | tam | ṛcaḥ | kāmayante | yaḥ | jāgāra | tam | oṃ iti | sāmāni | yanti | yaḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ