Sukta 5.44
सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः । भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥
सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूध॒: स धि॒यामु॒दञ्च॑नः । भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥
sutambharó yajamā́nasyá sát-patir víśvāsām ū́dhaḥ sá dhiyā́m ud-áñcanaḥ | bhárad dhenū́ rásavat chiśriye páyo 'nubrūvāṇó ádhy eti ná svápan ||
Bearer of the pressed delight, lord of the true for the sacrificer, the udder of all plenitudes—he lifts the thoughts upward. The milch-cow brings the sap; the milk has taken its seat: proclaiming along, he moves above, not sleeping.
सु॒त॒म्ऽभ॒रः । यज॑मानस्य । सत्ऽप॑तिः । विश्वा॑साम् । ऊधः॑ । सः । धि॒याम् । उ॒त्ऽअञ्च॑नः । भर॑त् । धे॒नुः । रस॑ऽवत् । शि॒श्रि॒ये॒ । पयः॑ । अ॒नु॒ऽब्रु॒वा॒णः । अधि॑ । ए॒ति॒ । न । स्व॒पन् ॥सुतम्भरः । यजमानस्य । सत्पतिः । विश्वासाम् । ऊधः । सः । धियाम् । उत्अञ्चनः । भरत् । धेनुः । रसवत् । शिश्रिये । पयः । अनुब्रुवाणः । अधि । एति । न । स्वपन् ॥sutam-bharaḥ | yajamānasya | sat-patiḥ | viśvāsām | ūdhaḥ | saḥ | dhiyām | ut-añcanaḥ | bharat | dhenuḥ | rasa-vat | śiśriye | payaḥ | anu-bruvāṇaḥ | adhi | eti | na | svapan