Sukta 5.44
अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥
अ॒ग्निर्जा॑गार॒ तमृच॑: कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति । अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
agnír jāgā́ra tám ṛ́caḥ kāmayante 'gnír jāgā́ra tám u sāmā́ni yanti | agnír jāgā́ra tám ayám sóma āha távā́ham asmi sakhyé nyòkāḥ ||
Agni has awakened—him the Rik-words desire; Agni has awakened—toward him the Sāman-chants move. Agni has awakened—of him this Soma speaks: ‘I am yours in friendship, dwelling with you.’
अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊँ॒ इति॑ । सामा॑नि । य॒न्ति॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । ऊँ इति । सामानि । यन्ति । अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निओकाः ॥agniḥ | jāgāra | tam | ṛcaḥ | kāmayante | agniḥ | jāgāra | tam | oṃ iti | sāmāni | yanti | agniḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ